connect:

कार्यशालायाः आयोजनाय अपेक्षितं विवरणम्

कार्यशालायाः नाम – 'सरलमानकसंस्कृतम् – एकदिवसीया कार्यशाला' (Workshop on Simple Standard Samskrit)

कदा – मार्च-अप्रैलमासस्य कस्मिंश्चित् दिने। (कस्मिंश्चित् रविवासरे अथवा विरामदिनेषु।)
कुत्र – जनपदकेन्द्रेषु राज्यकेन्द्रे च। महानगरेषु तु बहुषु स्थानेषु भवितुम् अर्हति।
अपेक्षिताः – संस्कृतस्य शिक्षकाः, प्राध्यापकाः, विद्वांसः, लेखकाः, कवयः, अन्ये संस्कृतज्ञाः च। एकस्यां कार्यशालायां ३० – ५० प्रतिभागिनः भवेयुः।
अवधिः – प्रातः १० वादनतः सायं ४:३० पर्यन्तम् (एकैकघण्टायाः ४ सत्राणि)
आयोजिका – भवदीया संस्था / अन्या कापि संस्था
सहयोगिनी – ONGC – CSR – SPF परियोजना

सत्रविषयाः

  • १. किमर्थं सरलमानकसंस्कृतम् (चर्चारूपेण) – प्रथमसत्रम्
  • २. सरलमानकसंस्कृतस्य स्वरूपम् (चर्चारूपेण) – द्वितीयसत्रम्
  • ३. सरलमानकसंस्कृतेन प्रौढसंस्कृतस्य परिवर्तनस्य अभ्यासः (गणशः) – तृतीयसत्रम्
  • ४. सरलमानकसंस्कृतस्य क्रियान्वयनम् (चर्चारूपेण) – चतुर्थसत्रम्

अन्यानि विवरणानि

  • १. उद्घाटनम् इति औपचारिकतायाम् अधिकः समयः न व्यर्थीकरणीयः। चर्चार्थम् एव पूर्णः समयः कल्पनीयः।
  • २. समापनम् इति पृथक् कार्यक्रमः मास्तु। विद्यमानेषु ज्येष्ठः प्रमुखः वा उपसंहारं कुर्यात्।
  • ३. सामग्रीमुद्रण-सत्रस्वीकर्तृमार्गव्यय-चाय-भोजनादीनां व्ययनिमित्तं १०,०००–१५,००० रूप्यकाणि संवर्धनप्रतिष्ठानेन दास्यन्ते।
  • ४. सत्रनिमित्तम् अध्ययनसामग्री जालपुटे उपलब्धा अस्ति।
  • ५. भागग्रहीतृभ्यः सूचनापत्रस्य प्रारूपं जालपुटे उपलब्धम् अस्ति। तत् यथा अपेक्षितं तथा परिष्कृत्य भवन्तः प्रेषयितुं शक्नुवन्ति।
  • ६. सरलमानकसंस्कृत-पुस्तकानि देहलीतः प्रेष्यन्ते। (राष्ट्रियसंस्कृतपरिषदः समित्या समर्पितं प्रतिवेदनम्)
  • ७. कार्यशालायां मञ्चस्य पृष्ठतः स्थापनाय फलकस्य प्रारूपं जालपुटे उपलब्धम् अस्ति।
  • ८. कार्यक्रमस्य कतिचन उत्तमचित्राणि प्रतिवेदनेन सह प्रेष्यन्ताम्। यथा मञ्चपृष्ठस्थफलकविषयाः चित्रे स्पष्टं दृश्येरन् तादृशं कार्यक्रमचित्रमपि प्रेष्यन्ताम्।
  • ९. कार्यशालायाः अनन्तरं संवर्धनप्रतिष्ठानं प्रति प्रेषणीयानां प्रारूपाणि जालपुटे उपलब्धानि सन्ति। (यथा प्रतिवेदनम्, आयव्ययविवरणम्, भागग्रहीतृविवरणम् इत्यादीनि)
  • १०. सत्रस्वीकर्तारः पूर्वभाविरूपेण सम्यक् सज्जताः कुर्युः।
  • ११. कार्यशालातः पूर्वम् अनन्तरं च सुष्ठु प्रचारः कर्तव्यः।
  • १२. कार्यशालायां कस्य अपि दीर्घं भाषणं न भवेत्। चर्चासु सर्वेषां सहभागः भवेत्।
  • १३. संयोजकेन प्रत्येकं भागग्रहीतुः सूचितपद्धत्या नामविवरणादीनि संवर्धनप्रतिष्ठानं प्रति प्रेषणीयानि।

संस्कृतसंवर्धनप्रतिष्ठानम्
'सरलमानकसंस्कृतम्'
एकदिवसीयाः कार्यशालायाः आवेदनपत्रम्