CONTENT, CONTAINER, PRODUCT ...

NR Kumar
Management Consultant



Content

• Science of Living
Yoga
Alternative Medicine
• Cultural Renaissance
Gita & Upanishads
Classical Music
Back to the Roots ...


Container

SAMSKRIT


When there is a huge demand for the product
Why are the suppliers not able to provide the products / services?


अहं प्रथमम् एकां घटनां वदामि । केभ्यश्चन वर्षेभ्यः पूर्वं काशीनगरे एकः भिक्षुकः आसीत् । सः प्र. तिदिनं बहिर्गच्छति, ‘भवति भिक्षां देहि’ इति पृच्छति, भिक्षां प्राप्नोति, गृहम् आगच्छति, अन्नं खादति । एवमेव अस्य समयः व्यतीतः । एकस्मिन् दिने अन्नस्य अभावात्, भोजनस्य अभावात् सः पञ्चत्वमपि प्राप्तवान् । सः एकस्मिन् लघुकुटीरे वसति स्म । तत् भिक्षुकस्य पुरातनकुटीरमासीत् । तस्य मरणानन्तरं तस्य पार्श्वगृहवासी तत् कुटीरं स्वीकृतवान् । तस्य गृहस्य पुनर्निर्माणाय खननम् आरब्धवान् । यदा सः खननम् आरब्धवान्, तदा तत्र भूमौ एकं पात्रं प्राप्तवान् । पात्रे सम्पूर्णं स्वर्गनाणकानि आसन् । भवतां पुरस्तात् एकः लघुप्रश्नः इदानीम् । एषः भिक्षुकः धनिको वा दरिद्रो वा ? एतस्य प्रश्नस्य उत्तरं कृपया वदन्तु । (उत्तरम् – दरिद्रः इति । स्वयं न जानाति इत्यतः) वस्तुतः सा एव वास्तविकी स्थितिः । या सम्पत्तिः अस्ति यदि तस्य ज्ञानम् अस्ति तर्हि सा सम्पत् अस्माकम् । तस्य पूर्वजैः संस्थापितं धनं स्यात् । किन्तु यावत् तस्य ज्ञानं नास्ति तावत् सः दरिद्रः एव ।

द्वितीयः प्रश्नः अस्ति सः बुद्धिमान् वा उत मूर्खः ? (उत्तरम् – मूर्खः) । तद्वत् अस्माकं पूर्वजाः अपि कतिचन अमूल्यानि वस्तूनि अधः स्थापयित्वा गतवन्तः । ते अपि न अस्मभ्यम् उक्तवन्तः । तत्र “Yoga and Alternative Medicine” इति पुस्तिकायां योगक्षेत्रे अद्यत्वे शताधिक-योगसम्बद्ध-उपकरणानां पेटेण्ट् सन्ति । तेषां यजमानाः सन्ति अमेरिकादेशीयाः । वस्तुतः तत्र प्रश्नद्वयम् । अहं प्रतिदिनं योगं करोमि । विंशतिवर्षेभ्यः पूर्वं योगकरणाय तस्य उपकरणस्य आवश्यकता का इति एव न ज्ञायते स्म । योगः कर्तव्यः इति तावदेव, परं तत्र उपकरणानाम् आवश्यकता का ? कथञ्चित् तेषां बुद्धिमुपयुज्य शताधिकानाम् उपकरणानां सृष्टिं कृत्वा पेटेण्ट् अपि प्राप्तवन्तः । यतः ते पार्श्वगृहस्य पितामहेन स्थापितं स्वर्णपात्रं ते अवगतवन्तः । तस्मादेव ते तादृशीं सम्पत्तिम् अवगम्य ते पेटेण्ट् प्राप्तवन्तः । द्वितीयं Alternative Medicine. वयं सर्वे जार्जबुशमहोदयं जानीमः । स इराक् प्रविष्टवान् इति केवलं तस्य कुख्यातिः विद्यते । तेन एकं कार्यं कृतम् आरम्भे । वयम् अस्माकं स्थितिं सर्वदा जानीमः । अत्रत्यां सर्वकारीयां स्थितिं सर्वदा जानीमः । अमेरिकायाः financial स्थितिः अस्माकम् अपेक्षया बहु दुर्बला विद्यते । तत्र बहूनि कारणानि सन्ति । प्रथमं तावत् तेषां health insurance scheme. तस्मात् ते ज्ञातवन्तः यथा इदानीं तेषां health insurance scheme अस्ति तथा एव तिष्ठति चेत् अमेरिका insolvent भवति इति । तस्मात् एकां Commission अयोजितवन्तः । तेन किं वा करणीयम् इति Commission द्वारा परिशीलनं कृतम् । अन्ततो गत्वा एक recommendation कृतवन्तः । एतस्य मूलकारणम् Alternative Medicine स्वीकरणीयम् इति उक्त्वा (विशिष्ट चैनी तथा आयुर्वेदः) दशभ्यः वर्षेभ्यः पूर्वं ते recommendation कृतवन्तः । पुनः पार्श्वगृहपितामहेन आयोजितं धानसम्पत्तिं ते अवगतवन्तः । क्षेत्रद्वये यावत् निश्चयेन यद् वस्तु अस्ति या च सम्पत्तिः अस्ति तस्य विषये विश्वे सर्वत्र जागृतिः अस्ति, जनाः अवगच्छन्ति ।

वस्तुतः मम पुत्री Pittsburg मध्ये PhD. करोति स्म । तस्याः सतीर्थ्यः तत्रत्यदेशीयः । सः चिन्तयति भारतीयाः सर्वे संस्कृतज्ञाः इति । तथैव ते चिन्तयन्ति वयं सर्वे प्रतिदिनं योगं कुर्मः इति । द्वितीयः विषयः अस्ति cultural renaissance इति । एतद्विषये किञ्चित् वक्तुम् इच्छामि । प्रायः विंशतिवर्षेभ्यः पूर्वं तत्र बाहुल्येन जनानां श्रद्धां न आसीत् । इदानीं बाहुल्येन गीताविषये अधिका श्रद्धा अस्ति । सङ्गीतविषये अपि महती श्रद्धा अस्ति । स्थितिः तु यः Chartered Accountant अस्ति सः तत् कार्यं परित्यज्य कर्णाटकसङ्गीतम् अध्येतुम् अपि सज्जः अस्ति । यत् सर्वम् अहम् उक्तवान् तेषां विषयाणां पात्रं तु संस्कृतम् । संस्कृतस्य अभावे आयुर्वेदः नास्ति । योगः नास्ति । कर्णाटकसङ्गीतं नास्ति । भवगद्गीता नास्ति । उपनिषद् अपि नास्ति ।

भवतां पुरस्तात् पुनः एकं प्रश्नम् उपस्थापितम् इच्छामि यद्यपि क्षेत्रचतुष्टये अपि महता प्रभावेण renaissance अस्ति । अत्र योगाभ्यासमय एकां संस्थां स्थापयति चेत् IT क्षेत्रे कियद् धनसम्पादनं शक्यते तावद् ततोऽपि अधिकं सः कर्तुं शक्नोति । सङ्गीतं स्वीकरोति चेत्, उपन्यासं करोति चेत् सर्वेषु क्षेत्रेषु महती प्रगतिः एव दृश्यते । तत्र नास्ति सन्देहः । यद्यपि एतेषु क्षेत्रेषु प्रगतिः अस्ति किमर्थम् एतस्य मूलभूतस्य संस्कृतस्य प्रगतिः नास्ति ? तद् अस्माभिः निश्चयेन चिन्तनीयम् । जगत् सर्वं कुदिशि गच्छतीति निश्चयेन वक्तुं न शक्नुमः । बहुषु क्षेत्रेषु निश्चयेन cultural renaissance अस्मिन् देशे जायमानम् अस्ति । जातम् अपि इति वक्तुं शक्यते । तस्मात् अस्माभिः एषः प्रश्नः पृष्टव्यः । Content दृष्ट्या यत् मम वशे अस्ति तत् सर्वे इच्छन्ति । परन्तु कथम् अस्य विक्रेतुः ईदृशी दुस्थितिः इति अस्माभिः चिन्तनीयम् । एतत् चित्रं तत् प्रदर्शयति । अस्माकं वशे यद् अस्ति तत् स्वीकर्तुम् अपेक्षा महती अस्ति, जनाः तद् इच्छन्ति अपि । तादृश्यां स्थित्यां वयं किमर्थं दातुं न शक्नुमः । किम् उचितं तत् कुर्मः । एकम् लघु उदाहरणम् अहम् ददामि । स्वामिनः चिन्मयमहाशयस्य आगमनात् पूर्वं भगवद्गीता गृहे गृहे एकस्मिन् कोणे आसीत् । इदानीं सर्वत्र प्रसारिता अस्ति यतः सः value migration कृतवान् । तथा संस्कृतक्षेत्रे अस्माभिः चिन्तनीयमिति उक्त्वा विरमामि ।